Sukta 3.27
समिध्यमानो अध्वरेऽग्निः पावक ईड्यः । शोचिष्केशस्तमीमहे ॥
स॒मि॒ध्यमा॑नो अध्व॒रे॒३॒॑ऽग्निः पा॑व॒क ईड्य॑: । शो॒चिष्के॑श॒स्तमी॑महे ॥
samidhyámāno adhvaré’gníḥ pāvaká ī́ḍyaḥ | śóciṣkeśas tám īmahe ||
Agni, being kindled in the path of the offering, the purifier and adorable, with hair of flame—we seek him.
स॒म्ऽइ॒ध्यमा॑नः । अ॒ध्व॒रे । अ॒ग्निः । पा॒व॒कः । ईड्यः॑ । शो॒चिःऽके॑शः । तम् । ई॒म॒हे॒ ॥सम्इध्यमानः । अध्वरे । अग्निः । पावकः । ईड्यः । शोचिःकेशः । तम् । ईमहे ॥sam-idhyamānaḥ | adhvare | agniḥ | pāvakaḥ | īḍyaḥ | śociḥ-keśaḥ | tam | īmahe