Sukta 3.27
अग्निं यन्तुरमप्तुरमृतस्य योगे वनुषः । विप्रा वाजैः समिन्धते ॥
अ॒ग्निं य॒न्तुर॑म॒प्तुर॑मृ॒तस्य॒ योगे॑ व॒नुष॑: । विप्रा॒ वाजै॒: समि॑न्धते ॥
agníṃ yánturam aptúram ṛtásya yóge vanúṣaḥ | víprā vājáiḥ samíndhate ||
Agni, the guide and the effective doer, in the yoking of the Truth—him the seekers kindle together, the inspired ones, with plenitudes of force.
अ॒ग्निम् । य॒न्तुर॑म् । अ॒प्ऽतुर॑म् । ऋ॒तस्य॑ । योगे॑ । व॒नुषः॑ । विप्राः॑ । वाजैः॑ । सम् । इ॒न्ध॒ते॒ ॥अग्निम् । यन्तुरम् । अप्तुरम् । ऋतस्य । योगे । वनुषः । विप्राः । वाजैः । सम् । इन्धते ॥agnim | yanturam | ap-turam | ṛtasya | yoge | vanuṣaḥ | viprāḥ | vājaiḥ | sam | indhate