Sukta 3.24
अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः । यज्ञेषु य उ चायवः ॥
अग्ने॒ विश्वे॑भिर॒ग्निभि॑र्दे॒वेभि॑र्महया॒ गिर॑: । य॒ज्ञेषु॒ य उ॑ चा॒यव॑: ॥
agne víśvebhir agníbhir devébhir mahayā́ gíraḥ | yajñéṣu yá u cā́yavaḥ ||
O Agni, with all the fires, with the gods, magnify our words of inspiration—those that are gathered and strengthened in the sacrifices.
अग्ने॑ । विश्वे॑भिः । अ॒ग्निऽभिः॑ । दे॒वेभिः॑ । म॒ह॒य॒ । गिरः॑ । य॒ज्ञेषु॑ । ये । ऊँ॒ इति॑ । चा॒यवः॑ ॥अग्ने । विश्वेभिः । अग्निभिः । देवेभिः । महय । गिरः । यज्ञेषु । ये । ऊँ इति । चायवः ॥agne | viśvebhiḥ | agni-bhiḥ | devebhiḥ | mahaya | giraḥ | yajñeṣu | ye | oṃ iti | cāyavaḥ