Sukta 3.23
दश क्षिपः पूर्व्यं सीमजीजनन्त्सुजातं मातृषु प्रियम् । अग्निं स्तुहि दैववातं देवश्रवो यो जनानामसद्वशी ॥
दश॒ क्षिप॑: पू॒र्व्यं सी॑मजीजन॒न्त्सुजा॑तं मा॒तृषु॑ प्रि॒यम् । अ॒ग्निं स्तु॑हि दैववा॒तं दे॑वश्रवो॒ यो जना॑ना॒मस॑द्व॒शी ॥
dáśa kṣípaḥ pū́rvyaṃ sīm ajījanan su-jā́taṃ mātṛ́ṣu priyám | agníṃ stúhi daiva-vā́taṃ deva-śravo yó janā́nām ásad vaśī́ ||
Ten swift kindlings have brought him to birth, the ancient one—well-born, dear among the Mothers. Praise Agni, O Devaśravas, the god-inspired, who sits as master of the peoples.
दश॑ । क्षिपः॑ । पू॒र्व्यम् । सी॒म् । अ॒जी॒ज॒न॒न् । सुऽजा॑तम् । मा॒तृषु॑ । प्रि॒यम् । अ॒ग्निम् । स्तु॒हि॒ । दै॒व॒ऽवा॒तम् । दे॒व॒ऽश्र॒वः॒ । यः । जना॑नाम् । अस॑त् । व॒शी ॥दश । क्षिपः । पूर्व्यम् । सीम् । अजीजनन् । सुजातम् । मातृषु । प्रियम् । अग्निम् । स्तुहि । दैववातम् । देवश्रवः । यः । जनानाम् । असत् । वशी ॥daśa | kṣipaḥ | pūrvyam | sīm | ajījanan | su-jātam | mātṛṣu | priyam | agnim | stuhi | daiva-vātam | deva-śravaḥ | yaḥ | janānām | asat | vaśī