Sukta 3.23
नि त्वा दधे वर आ पृथिव्या इळायास्पदे सुदिनत्वे अह्नाम् । दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्ने दिदीहि ॥
नि त्वा॑ दधे॒ वर॒ आ पृ॑थि॒व्या इळा॑यास्प॒दे सु॑दिन॒त्वे अह्ना॑म् । दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ॥
ní tvā dadhe váre ā́ pṛthivyā́ iḷā́yāḥ padé su-dina-tvé áhnām | dṛṣád-vatyāṃ mā́nuṣe āpayā́yāṃ sárasvatyāṃ revád agne didīhi ||
I set thee down in the chosen place upon Earth, in the seat of Iḷā, for the bright felicity of the days. In Dṛṣadvatī, in the human realm, in Āpayā, in Sarasvatī—shine forth, O radiant Agni.
नि । त्वा॒ । द॒धे॒ । वरे॑ । आ । पृ॒थि॒व्याः । इळा॑याः । प॒दे । सु॒ऽदि॒न॒ऽत्वे । अह्ना॑म् । दृ॒षत्ऽव॑त्याम् । मानु॑षे । आ॒प॒याया॑म् । सर॑स्वत्याम् । रे॒वत् । अ॒ग्ने॒ । दि॒दी॒हि॒ ॥नि । त्वा । दधे । वरे । आ । पृथिव्याः । इळायाः । पदे । सुदिनत्वे । अह्नाम् । दृषत्वत्याम् । मानुषे । आपयायाम् । सरस्वत्याम् । रेवत् । अग्ने । दिदीहि ॥ni | tvā | dadhe | vare | ā | pṛthivyāḥ | iḷāyāḥ | pade | su-dina-tve | ahnām | dṛṣat-vatyām | mānuṣe | āpayāyām | sarasvatyām | revat | agne | didīhi