Sukta 3.23
अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम् । अग्ने वि पश्य बृहताभि रायेषां नो नेता भवतादनु द्यून् ॥
अम॑न्थिष्टां॒ भार॑ता रे॒वद॒ग्निं दे॒वश्र॑वा दे॒ववा॑तः सु॒दक्ष॑म् । अग्ने॒ वि प॑श्य बृह॒ताभि रा॒येषां नो॑ ने॒ता भ॑वता॒दनु॒ द्यून् ॥
amánthiṣṭāṃ bhā́ratā revád agníṃ deva-śrávā deva-vā́taḥ su-dákṣam | agne ví paśya bṛhatā́bhi rāyéṣāṃ no netā́ bhavatād ánu dyū́n ||
The Bharatas have churned out the radiant Agni—Devaśravas, Devavāta—well-skilled in the work. O Agni, look wide with the Vast; become our leader towards these plenitudes of being, day after day.
अम॑न्थिष्टाम् । भार॑ता । रे॒वत् । अ॒ग्निम् । दे॒वऽश्र॑वाः । दे॒वऽवा॑तः । सु॒ऽदक्ष॑म् । अग्ने॑ । वि । प॒श्य॒ । बृ॒ह॒ता । अ॒भि । रा॒या । इ॒षाम् । नः॒ । ने॒ता । भ॒व॒ता॒त् । अनु॑ । द्यून् ॥अमन्थिष्टाम् । भारता । रेवत् । अग्निम् । देवश्रवाः । देववातः । सुदक्षम् । अग्ने । वि । पश्य । बृहता । अभि । राया । इषाम् । नः । नेता । भवतात् । अनु । द्यून् ॥amanthiṣṭām | bhāratā | revat | agnim | deva-śravāḥ | deva-vātaḥ | su-dakṣam | agne | vi | paśya | bṛhatā | abhi | rāyā | iṣām | naḥ | netā | bhavatāt | anu | dyūn