Sukta 3.23
निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य प्रणेता । जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अमृतं जातवेदाः ॥
निर्म॑थित॒: सुधि॑त॒ आ स॒धस्थे॒ युवा॑ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता । जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा॑ दधे अ॒मृतं॑ जा॒तवे॑दाः ॥
nir-máthitaḥ su-dhíta ā́ sadha-sthé yúvā kavír adhvarásya pra-netā́ | jū́ryat-su agnír ajáro váneṣv átrā́ dadhé amṛ́taṃ jāta-vedāḥ ||
Churned forth and well-founded, he comes to the seat of the rite; the young seer, the leader of the journey of sacrifice. In the growing woods the unaging Agni—Jātavedas—has here placed the immortality (nectar of deathless being).
निःऽम॑थितः । सुऽधि॑तः । आ । स॒धऽस्थे॑ । युवा॑ । क॒विः । अ॒ध्व॒रस्य॑ । प्र॒ऽने॒ता । जूर्य॑त्ऽसु । अ॒ग्निः । अ॒जरः॑ । वने॑षु । अत्र॑ । द॒धे॒ । अ॒मृत॑म् । जा॒तऽवे॑दाः ॥निःमथितः । सुधितः । आ । सधस्थे । युवा । कविः । अध्वरस्य । प्रनेता । जूर्यत्सु । अग्निः । अजरः । वनेषु । अत्र । दधे । अमृतम् । जातवेदाः ॥niḥ-mathitaḥ | su-dhitaḥ | ā | sadha-sthe | yuvā | kaviḥ | adhvarasya | pra-netā | jūryat-su | agniḥ | ajaraḥ | vaneṣu | atra | dadhe | amṛtam | jāta-vedāḥ