Sukta 3.21
ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे । श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान्देवशो विहि ॥
ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तं॒ प्र ते॑ व॒यं द॑दामहे । श्चोत॑न्ति ते वसो स्तो॒का अधि॑ त्व॒चि प्रति॒ तान्दे॑व॒शो वि॑हि ॥
ójiṣṭhaṃ te madhyató médá úd-bhṛtaṃ prá te vayáṃ dadāmahe | ścótanti te vaso stokā́ ádhi tvací práti tā́n devaśó víhi ||
We offer to you the strongest essence drawn out from the midst. O Vasu, your streams drip upon your skin; receive them in due divine measure—distribute and arrange the offerings rightly within the being.
ओजि॑ष्ठम् । ते॒ । म॒ध्य॒तः । मेदः॑ । उत्ऽभृ॑तम् । प्र । ते॒ । व॒यम् । द॒दा॒म॒हे॒ । श्चोत॑न्ति । ते॒ । व्स् इति॑ । स्तो॒काः । अधि॑ । त्व॒चि । प्रति॑ । तान् । दे॒व॒ऽशः । वि॒हि॒ ॥ओजिष्ठम् । ते । मध्यतः । मेदः । उत्भृतम् । प्र । ते । वयम् । ददामहे । श्चोतन्ति । ते । व्स् इति । स्तोकाः । अधि । त्वचि । प्रति । तान् । देवशः । विहि ॥ojiṣṭham | te | madhyataḥ | medaḥ | ut-bhṛtam | pra | te | vayam | dadāmahe | ścotanti | te | vs iti | stokāḥ | adhi | tvaci | prati | tān | deva-śaḥ | vihi