Sukta 3.2
तिस्रो यह्वस्य समिधः परिज्मनोऽग्नेरपुनन्नुशिजो अमृत्यवः । तासामेकामदधुर्मर्त्ये भुजमु लोकमु द्वे उप जामिमीयतुः ॥
ति॒स्रो य॒ह्वस्य॑ स॒मिध॒: परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒ अमृ॑त्यवः । तासा॒मेका॒मद॑धु॒र्मर्त्ये॒ भुज॑मु लो॒कमु॒ द्वे उप॑ जा॒मिमी॑यतुः ॥
tísro yahvásya samídhaḥ pári-jmano 'gnér apunann uśíjo amṛ́tyavaḥ | tāsām ékām ádadhuḥ mártye bhújam u lokám u dvé úpa jāmím īyatuḥ ||
Three kindlings of the mighty-moving Agni the eager immortals purified. Of these they placed one for the mortal to enjoy; two went upward towards their own kin-world.
ति॒स्रः । य॒ह्वस्य॑ । स॒म्ऽइधः॑ । परि॑ऽज्मनः । अ॒ग्नेः । अ॒पु॒न॒न् । उ॒शिजः॑ । अमृ॑त्यवः । तासा॑म् । एका॑म् । अद॑धुः । मर्त्ये॑ । भुज॑म् । ऊँ॒ इति॑ । लो॒कम् । ऊँ॒ इति॑ । द्वे इति॑ । उप॑ । जा॒मिम् । ई॒य॒तुः॒ ॥तिस्रः । यह्वस्य । सम्इधः । परिज्मनः । अग्नेः । अपुनन् । उशिजः । अमृत्यवः । तासाम् । एकाम् । अदधुः । मर्त्ये । भुजम् । ऊँ इति । लोकम् । ऊँ इति । द्वे इति । उप । जामिम् । ईयतुः ॥tisraḥ | yahvasya | sam-idhaḥ | pari-jmanaḥ | agneḥ | apunan | uśijaḥ | amṛtyavaḥ | tāsām | ekām | adadhuḥ | martye | bhujam | oṃ iti | lokam | oṃ iti | dve iti | upa | jāmim | īyatuḥ