Sukta 3.2
विशां कविं विश्पतिं मानुषीरिषः सं सीमकृण्वन्त्स्वधितिं न तेजसे । स उद्वतो निवतो याति वेविषत्स गर्भमेषु भुवनेषु दीधरत् ॥
वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षी॒रिष॒: सं सी॑मकृण्व॒न्त्स्वधि॑तिं॒ न तेज॑से । स उ॒द्वतो॑ नि॒वतो॑ याति॒ वेवि॑ष॒त्स गर्भ॑मे॒षु भुव॑नेषु दीधरत् ॥
viśā́ṃ kavíṃ viśpátiṃ mā́nuṣīr íṣaḥ sáṃ sīm akṛṇvan svá-dhitim ná téjase | sá udvátó nivátó yāti véviṣat sá gárbham eṣú bhúvaneṣu dīdharat ||
The human energies made him one-pointed—Agni, the seer of the peoples, the lord of the clan—like a whetted blade for brilliance. He moves from the heights and the depths, vibrating with force; he holds the embryo of the divine in these worlds.
वि॒शाम् । क॒विम् । वि॒श्पति॑म् । मानु॑षीः । इषः॑ । सम् । सी॒म् । अ॒कृ॒ण्व॒न् । स्वऽधि॑तिम् । न । तेज॑से । सः । उ॒त्ऽवतः॑ । नि॒ऽवतः॑ । या॒ति॒ । वेवि॑षत् । सः । गर्भ॑म् । ए॒षु । भुव॑नेषु । दी॒ध॒र॒त् ॥विशाम् । कविम् । विश्पतिम् । मानुषीः । इषः । सम् । सीम् । अकृण्वन् । स्वधितिम् । न । तेजसे । सः । उत्वतः । निवतः । याति । वेविषत् । सः । गर्भम् । एषु । भुवनेषु । दीधरत् ॥viśām | kavim | viśpatim | mānuṣīḥ | iṣaḥ | sam | sīm | akṛṇvan | sva-dhitim | na | tejase | saḥ | ut-vataḥ | ni-vataḥ | yāti | veviṣat | saḥ | garbham | eṣu | bhuvaneṣu | dīdharat