Sukta 3.2
नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् । रथीॠतस्य बृहतो विचर्षणिरग्निर्देवानामभवत्पुरोहितः ॥
न॒म॒स्यत॑ ह॒व्यदा॑तिं स्वध्व॒रं दु॑व॒स्यत॒ दम्यं॑ जा॒तवे॑दसम् । र॒थीॠ॒तस्य॑ बृह॒तो विच॑र्षणिर॒ग्निर्दे॒वाना॑मभवत्पु॒रोहि॑तः ॥
namasyata havya-dā́tiṃ sv-adhvaráṃ duvasyata dábhyaṃ jā́ta-vedasam | rathī́ ṛtásya bṛható ví-carṣaṇir agnír devā́nām abhavat puró-hitaḥ ||
Bow to the giver of the offering, serve the master of the straight rite, the invincible Jātavedas. Agni, the charioteer of the vast Truth, the wide-seeing, has become the gods’ leader set in front.
न॒म॒स्यत॑ । ह॒व्यऽदा॑तिम् । सु॒ऽअ॒ध्व॒रम् । दु॒व॒स्यत॑ । दभ्य॑म् । जा॒तऽवे॑दसम् । र॒थीः । ऋ॒तस्य॑ । बृ॒ह॒तः । विऽच॑र्षणिः । अ॒ग्निः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रःऽहि॑तः ॥नमस्यत । हव्यदातिम् । सुअध्वरम् । दुवस्यत । दभ्यम् । जातवेदसम् । रथीः । ऋतस्य । बृहतः । विचर्षणिः । अग्निः । देवानाम् । अभवत् । पुरःहितः ॥namasyata | havya-dātim | su-adhvaram | duvasyata | dabhyam | jāta-vedasam | rathīḥ | ṛtasya | bṛhataḥ | vi-carṣaṇiḥ | agniḥ | devānām | abhavat | puraḥ-hitaḥ