Sukta 3.2
आ रोदसी अपृणदा स्वर्महज्जातं यदेनमपसो अधारयन् । सो अध्वराय परि णीयते कविरत्यो न वाजसातये चनोहितः ॥
आ रोद॑सी अपृण॒दा स्व॑र्म॒हज्जा॒तं यदे॑नम॒पसो॒ अधा॑रयन् । सो अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो॑हितः ॥
ā ródasī apṛṇad ā svàr maháj jātáṃ yád enam apáso ádhārayan | só adhvarā́ya pári nīyate kavír átyo ná vā́ja-sātaye cánaḥ-hitaḥ ||
He filled heaven and earth, and he filled the vast luminous world, when the Powers of work upheld him at his birth. Then the seer is led around for the sacrifice, like a swift steed for the winning of plenitude, set in us for our good.
आ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒त् । आ । स्वः॑ । म॒हत् । जा॒तम् । यत् । ए॒न॒म् । अ॒पसः॑ । अधा॑रयन् । सः । अ॒ध्व॒राय॑ । परि॑ । नी॒य॒ते॒ । क॒विः । अत्यः॑ । न । वाज॑ऽसातये । चनः॑ऽहितः ॥आ । रोदसी इति । अपृणत् । आ । स्वः । महत् । जातम् । यत् । एनम् । अपसः । अधारयन् । सः । अध्वराय । परि । नीयते । कविः । अत्यः । न । वाजसातये । चनःहितः ॥ā | rodasī iti | apṛṇat | ā | svaḥ | mahat | jātam | yat | enam | apasaḥ | adhārayan | saḥ | adhvarāya | pari | nīyate | kaviḥ | atyaḥ | na | vāja-sātaye | canaḥ-hitaḥ