Sukta 3.2
पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः । अग्ने दुव इच्छमानास आप्यमुपासते द्रविणं धेहि तेभ्यः ॥
पाव॑कशोचे॒ तव॒ हि क्षयं॒ परि॒ होत॑र्य॒ज्ञेषु॑ वृ॒क्तब॑र्हिषो॒ नर॑: । अग्ने॒ दुव॑ इ॒च्छमा॑नास॒ आप्य॒मुपा॑सते॒ द्रवि॑णं धेहि॒ तेभ्य॑: ॥
pā́vaka-śoce táva hí kṣáyaṃ pári hótar yajñéṣu vṛktá-barhiṣo nárāḥ | agne dúva icchámānāsa ā́pyam upā́sate dráviṇaṃ dhehi tébhyaḥ ||
O purifying flame, around thy home the men of the prepared seat gather in the sacrifices, O Hotar. Desiring service and the inmost fulfilment, they sit near thee in adoration; place in them the treasure of the soul.
पाव॑कऽशोचे । तव॑ । हि । क्षय॑म् । परि॑ । होतः॑ । य॒ज्ञेषु॑ । वृ॒क्तऽब॑र्हिषः । नरः॑ । अग्ने॑ । दुवः॑ । इ॒च्छमा॑नासः । आप्य॑म् । उप॑ । आ॒स॒ते॒ । द्रवि॑णम् । धे॒हि॒ । तेभ्यः॑ ॥पावकशोचे । तव । हि । क्षयम् । परि । होतः । यज्ञेषु । वृक्तबर्हिषः । नरः । अग्ने । दुवः । इच्छमानासः । आप्यम् । उप । आसते । द्रविणम् । धेहि । तेभ्यः ॥pāvaka-śoce | tava | hi | kṣayam | pari | hotaḥ | yajñeṣu | vṛkta-barhiṣaḥ | naraḥ | agne | duvaḥ | icchamānāsaḥ | āpyam | upa | āsate | draviṇam | dhehi | tebhyaḥ