Sukta 3.2
अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वृक्तबर्हिषः । यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिमपसाम् ॥
अ॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जना॒ वाज॑श्रवसमि॒ह वृ॒क्तब॑र्हिषः । य॒तस्रु॑चः सु॒रुचं॑ वि॒श्वदे॑व्यं रु॒द्रं य॒ज्ञानां॒ साध॑दिष्टिम॒पसा॑म् ॥
agníṃ sumnā́ya dadhire puró jánā vā́ja-śravasam ihá vṛktá-barhiṣaḥ | yatá-srucaḥ su-rúcaṃ viśvá-devyaṃ rudráṃ yajñā́nāṃ sā́dhat-iṣṭim apásām ||
For the sake of the divine gladness, men have set Agni in the forefront—here, they of the strewn sacred seat; holding the ladles in control, they establish the fair-radiant, the all-godward, the Rudra-power who accomplishes the desired offering of our works.
अ॒ग्निम् । सु॒म्नाय॑ । द॒धि॒रे॒ । पु॒रः । जनाः॑ । वाज॑ऽश्रवसम् । इ॒ह । वृ॒क्तऽब॑र्हिषः । य॒तऽस्रु॑चः । सु॒ऽरुच॑म् । वि॒श्वऽदे॑व्यम् । रु॒द्रम् । य॒ज्ञाना॑म् । साध॑त्ऽइष्टिम् । अ॒पसा॑म् ॥अग्निम् । सुम्नाय । दधिरे । पुरः । जनाः । वाजश्रवसम् । इह । वृक्तबर्हिषः । यतस्रुचः । सुरुचम् । विश्वदेव्यम् । रुद्रम् । यज्ञानाम् । साधत्इष्टिम् । अपसाम् ॥agnim | sumnāya | dadhire | puraḥ | janāḥ | vāja-śravasam | iha | vṛkta-barhi ṣaḥ | yata-srucaḥ | su-rucam | viśva-devyam | rudram | yajñānām | sādhat-iṣṭi m | apasām