Sukta 3.2
आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियम् । रातिं भृगूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा ॥
आ म॒न्द्रस्य॑ सनि॒ष्यन्तो॒ वरे॑ण्यं वृणी॒महे॒ अह्र॑यं॒ वाज॑मृ॒ग्मिय॑म् । रा॒तिं भृगू॑णामु॒शिजं॑ क॒विक्र॑तुम॒ग्निं राज॑न्तं दि॒व्येन॑ शो॒चिषा॑ ॥
ā mandrásya saniṣyántaḥ váreṇyaṃ vṛṇīmahe áhrayaṃ vā́jam ṛgmíyam | rātíṃ bhṛgūṇām uśíjaṃ kaví-kratum agníṃ rājántaṃ divyéna śocíṣā ||
Seeking the gain of the Delight, we choose the most choice-worthy—Agni, unerring, the plenitude of force that is hymned by the Word; the gift of the Bhṛgus, the eager flame, the seer-will, shining with a divine radiance.
आ । म॒न्द्रस्य॑ । स॒नि॒ष्यन्तः॑ । वरे॑ण्यम् । वृ॒णी॒महे॑ । अह्र॑यम् । वाज॑म् । ऋ॒ग्मिय॑म् । रा॒तिम् । भृगू॑णाम् । उ॒शिज॑म् । क॒विऽक्र॑तुम् । अ॒ग्निम् । राज॑न्तम् । दि॒व्येन॑ । शो॒चिषा॑ ॥आ । मन्द्रस्य । सनिष्यन्तः । वरेण्यम् । वृणीमहे । अह्रयम् । वाजम् । ऋग्मियम् । रातिम् । भृगूणाम् । उशिजम् । कविक्रतुम् । अग्निम् । राजन्तम् । दिव्येन । शोचिषा ॥ā | mandrasya | saniṣyantaḥ | vareṇyam | vṛṇīmahe | ahrayam | vājam | ṛgmiyam | rātim | bhṛgāūṇām | uśijam | kavi-kratum | agnim | rājantam | divyena | śociṣā