Sukta 3.2
क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः । रुरुचानं भानुना ज्योतिषा महामत्यं न वाजं सनिष्यन्नुप ब्रुवे ॥
क्रत्वा॒ दक्ष॑स्य॒ तरु॑षो॒ विध॑र्मणि दे॒वासो॑ अ॒ग्निं ज॑नयन्त॒ चित्ति॑भिः । रु॒रु॒चा॒नं भा॒नुना॒ ज्योति॑षा म॒हामत्यं॒ न वाजं॑ सनि॒ष्यन्नुप॑ ब्रुवे ॥
kratvā́ dákṣasya tárūṣo vídharmaṇi devā́so agníṁ janayanta cítti-bhiḥ | rurucānám bhānúnā jyótiṣā mahā́m atyáṁ ná vā́jaṁ saniṣyán úpa bruve ||
By the conscious will (kratu) and the skill of effective power (dakṣa), in the ordered law of right workings (vi-dharmaṇi), the gods bring Agni to birth through luminous perceptions (citti). Him who shines out with beam and light—great like a racing steed of the vastness—I invoke, seeking the vāja: the plenitude of victorious force.
क्रत्वा॑ । दक्ष॑स्य । तरु॑षः । विऽध॑र्मणि । दे॒वासः॑ । अ॒ग्निम् । ज॒न॒य॒न्त॒ । चित्ति॑ऽभिः । रु॒रु॒चा॒नम् । भा॒नुना॑ । ज्योति॑षा । म॒हाम् । अत्य॑म् । न । वाज॑म् । स॒नि॒ष्यन् । उप॑ । ब्रु॒वे॒ ॥क्रत्वा । दक्षस्य । तरुषः । विधर्मणि । देवासः । अग्निम् । जनयन्त । चित्तिभिः । रुरुचानम् । भानुना । ज्योतिषा । महाम् । अत्यम् । न । वाजम् । सनिष्यन् । उप । ब्रुवे ॥kratvā | dakṣasya | taruṣaḥ | vi-dharmaṇi | devāsaḥ | agnim | janayanta | citti-bhiḥ | rurucānam | bhānunā | jyotiṣā | mahām | atyam | na | vājam | saniṣyan | upa | bruve