Sukta 3.2
शुचिं न यामन्निषिरं स्वर्दृशं केतुं दिवो रोचनस्थामुषर्बुधम् । अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बृहत् ॥
शुचिं॒ न याम॑न्निषि॒रं स्व॒र्दृशं॑ के॒तुं दि॒वो रो॑चन॒स्थामु॑ष॒र्बुध॑म् । अ॒ग्निं मू॒र्धानं॑ दि॒वो अप्र॑तिष्कुतं॒ तमी॑महे॒ नम॑सा वा॒जिनं॑ बृ॒हत् ॥
śucíṃ na yā́mann iṣiráṃ svaḥ-dṛ́śaṃ ketúṃ divó rocaná-sthām uṣar-búdhām | agníṃ mūrdhā́naṃ divó áprati-skutaṃ tám īmahe námasā vā́jinaṃ bṛhát ||
We seek with adoration that Agni—pure as the path of movement, keen-edged in power, visioning the supramental Light; the luminous beacon of heaven stationed in the worlds of radiance, awake with the Dawn. We seek the Head and summit of heaven, the irresistible Flame that cannot be thrust aside, the vast Bearer of plenitude of force.
शुचि॑म् । न । याम॑न् । इ॒षि॒रम् । स्वः॒ऽदृश॑म् । के॒तुम् । दि॒वः । रो॒च॒न॒ऽस्थाम् । उ॒षः॒ऽबुध॑म् । अ॒ग्निम् । मू॒र्धान॑म् । दि॒वः । अप्र॑तिऽस्कुतम् । तम् । ई॒म॒हे॒ । नम॑सा । वा॒जिन॑म् । बृ॒हत् ॥शुचिम् । न । यामन् । इषिरम् । स्वःदृशम् । केतुम् । दिवः । रोचनस्थाम् । उषःबुधम् । अग्निम् । मूर्धानम् । दिवः । अप्रतिस्कुतम् । तम् । ईमहे । नमसा । वाजिनम् । बृहत् ॥śucim | na | yāman | iṣiram | svaḥ-dṛśam | ketum | divaḥ | rocana-sthām | uṣaḥ-budham | agnim | mūrdhānam | divaḥ | aprati-skutam | tam | īmahe | namasā | vājinam | bṛhat