Sukta 3.2
वैश्वानरः प्रत्नथा नाकमारुहद्दिवस्पृष्ठं भन्दमानः सुमन्मभिः । स पूर्ववज्जनयञ्जन्तवे धनं समानमज्मं पर्येति जागृविः ॥
वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठं भन्द॑मानः सु॒मन्म॑भिः । स पू॑र्व॒वज्ज॒नय॑ञ्ज॒न्तवे॒ धनं॑ समा॒नमज्मं॒ पर्ये॑ति॒ जागृ॑विः ॥
vaiśvānarás pratná-thā nā́kam ā́ruhad divás pṛṣṭháṃ bhandamā́naḥ sumánma-bhiḥ | sá pū́rva-vaj jánayan jántave dhánam samā́nám ájmaṃ páry eti jā́gṛviḥ ||
Vaiśvānara, as in the ancient way, climbed to the luminous summit, smiling with happy thoughts. Awake, as before, he brings forth for the creature the wealth and moves around on the same path.
वै॒श्वा॒न॒रः । प्र॒त्नऽथा॑ । नाक॑म् । आ । अ॒रु॒ह॒त् । दि॒वः । पृ॒ष्ठम् । भन्द॑मानः । सु॒मन्म॑ऽभिः । सः । पू॒र्व॒ऽवत् । ज॒नय॑न् । ज॒न्तवे॑ । धन॑म् । स॒मा॒नम् । अज्म॑म् । परि॑ । ए॒ति॒ । जागृ॑विः ॥वैश्वानरः । प्रत्नथा । नाकम् । आ । अरुहत् । दिवः । पृष्ठम् । भन्दमानः । सुमन्मभिः । सः । पूर्ववत् । जनयन् । जन्तवे । धनम् । समानम् । अज्मम् । परि । एति । जागृविः ॥vaiśvānaraḥ | pratna-thā | nākam | ā | aruhat | divaḥ | pṛṣṭham | bhandamānaḥ | sumanma-bhiḥ | saḥ | pūrva-vat | janayan | jantave | dhanam | samānam | ajmam | pari | eti | jāgṛviḥ