Sukta 3.2
स जिन्वते जठरेषु प्रजज्ञिवान्वृषा चित्रेषु नानदन्न सिंहः । वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ॥
स जि॑न्वते ज॒ठरे॑षु प्रजज्ञि॒वान्वृषा॑ चि॒त्रेषु॒ नान॑द॒न्न सिं॒हः । वै॒श्वा॒न॒रः पृ॑थु॒पाजा॒ अम॑र्त्यो॒ वसु॒ रत्ना॒ दय॑मानो॒ वि दा॒शुषे॑ ॥
sá jínvate jaṭháreṣu prajajñi-vā́n vṛ́ṣā citréṣu nā́nadann ná síṃhaḥ | vaiśvānarás pṛthu-pā́jā amártyo vásu rátnā dā́yamāno ví dā́śuṣe ||
He is born again and again in the bellies, and as a bull he roars among the luminous forms like a lion. Vaiśvānara, wide in power, immortal, distributing riches and treasures, gives out to the giver.
सः । जि॒न्व॒ते॒ । ज॒ठरे॑षु । प्र॒ज॒ज्ञि॒ऽवान् । वृषा॑ । चि॒त्रेषु॑ । नान॑दत् । न । सिं॒हः । वै॒श्वा॒न॒रः । पृ॒थु॒ऽपाजाः॑ । अम॑र्त्यः । वसु॑ । रत्ना॑ । दय॑मानः । वि । दा॒शुषे॑ ॥सः । जिन्वते । जठरेषु । प्रजज्ञिवान् । वृषा । चित्रेषु । नानदत् । न । सिंहः । वैश्वानरः । पृथुपाजाः । अमर्त्यः । वसु । रत्ना । दयमानः । वि । दाशुषे ॥saḥ | jinvate | jaṭhareṣu | prajajñi-vān | vṛṣā | citreṣu | nānadat | na | siṃhaḥ | vaiśvānaraḥ | pṛthu-pājāḥ | amartyaḥ | vasu | ratnā | dayamānaḥ | vi | dāśuṣe