Sukta 3.19
भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः । स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यं यजासि ॥
भूरी॑णि॒ हि त्वे द॑धि॒रे अनी॒काग्ने॑ दे॒वस्य॒ यज्य॑वो॒ जना॑सः । स आ व॑ह दे॒वता॑तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा॑सि ॥
bhūrī́ṇi hí tvé dadhire anī́kāgne devásya yájyavo jánāsaḥ | sá ā́ vaha devátātiṃ yaviṣṭha śárdho yád adyá divyáṃ yájāsi ||
For many are the fronting powers set in you, O Agni, by the people who are fit for the divine offering. Therefore bring here the host of the godheads, O youngest; for today you sacrifice the luminous company.
भूती॑नि । हि । त्वे इति॑ । द॒धि॒रे । अनी॑का । अग्ने॑ । दे॒वस्य॑ । यज्य॑वः । जना॑सः । सः । आ । व॒ह॒ । दे॒वता॑तिम् । य॒वि॒ष्ठ॒ । शर्धः॑ । यत् । अ॒द्य । दि॒व्यम् । यजा॑सि ॥भूतीनि । हि । त्वे इति । दधिरे । अनीका । अग्ने । देवस्य । यज्यवः । जनासः । सः । आ । वह । देवतातिम् । यविष्ठ । शर्धः । यत् । अद्य । दिव्यम् । यजासि ॥bhūtīni | hi | tve iti | dadhire | anīkā | agne | devasya | yajyavaḥ | janāsaḥ | saḥ | ā | vaha | devatātim | yaviṣṭha | śardhaḥ | yat | adya | divyam | yajāsi