Sukta 3.19
यत्त्वा होतारमनजन्मियेधे निषादयन्तो यजथाय देवाः । स त्वं नो अग्नेऽवितेह बोध्यधि श्रवांसि धेहि नस्तनूषु ॥
यत्त्वा॒ होता॑रम॒नज॑न्मि॒येधे॑ निषा॒दय॑न्तो य॒जथा॑य दे॒वाः । स त्वं नो॑ अग्नेऽवि॒तेह बो॒ध्यधि॒ श्रवां॑सि धेहि नस्त॒नूषु॑ ॥
yát tvā hótāram anájann miyédhe niṣā́dayanto yajáthāya devā́ḥ | sá tváṃ no agne avitéhá bodhy ádhi śrávāṃsi dhehi nas tanū́ṣu ||
When the gods, for the act of sacrifice, fashioned you as the invoking priest in the sacrificial meeting and seated you in your place—then you, O Agni, be here our protector and awake within us; set upon our bodies the powers of inspired hearing and victorious fame (the listening that receives Truth).
यत् । त्वा॒ । होता॑रम् । अ॒नज॑न् । मि॒येधे॑ । नि॒ऽषा॒दय॑न्तः । य॒जथा॑य । दे॒वाः । सः । त्वम् । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । इ॒ह । बो॒धि॒ । अधि॑ । श्रवां॑सि । धे॒हि॒ । नः॒ । त॒नूषु॑ ॥यत् । त्वा । होतारम् । अनजन् । मियेधे । निषादयन्तः । यजथाय । देवाः । सः । त्वम् । नः । अग्ने । अविता । इह । बोधि । अधि । श्रवांसि । धेहि । नः । तनूषु ॥yat | tvā | hotāram | anajan | miyedhe | ni-ṣādayantaḥ | yajathāya | devāḥ | saḥ | tvam | naḥ | agne | avitā | iha | bodhi | adhi | śravāṃsi | dhehi | naḥ | tanūṣu