Sukta 3.18
उच्छोचिषा सहसस्पुत्र स्तुतो बृहद्वयः शशमानेषु धेहि । रेवदग्ने विश्वामित्रेषु शं योर्मर्मृज्मा ते तन्वं भूरि कृत्वः ॥
उच्छो॒चिषा॑ सहसस्पुत्र स्तु॒तो बृ॒हद्वय॑: शशमा॒नेषु॑ धेहि । रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म॑र्मृ॒ज्मा ते॑ त॒न्वं१॒॑ भूरि॒ कृत्व॑: ॥
úc chóciṣā sahasasputra stutó bṛhád váyaḥ śaśamānéṣu dhehi | revád agne viśvāmitreṣu śáṃ yór marmṛjmā́ te tanvàṃ bhū́ri kṛ́tvaḥ ||
Rise up with your flame, O son of Force, praised; place in the mastering seekers a vast and winged power of ascent. O Agni, rich in abundance among the Viśvāmitras, we would make smooth and bright your body, building it greatly for peace and well-being.
उत् । शो॒चिषा॑ । स॒ह॒सः॒ । पु॒त्र॒ । स्तु॒तः । बृ॒हत् । वयः॑ । श॒श॒मा॒नेषु॑ । धे॒हि॒ । रे॒वत् । अ॒ग्ने॒ । वि॒श्वामि॑त्रेषु । शम् । योः । म॒र्मृ॒ज्म । ते॒ । त॒न्व॑म् । भूरि॑ । कृत्वः॑ ॥उत् । शोचिषा । सहसः । पुत्र । स्तुतः । बृहत् । वयः । शशमानेषु । धेहि । रेवत् । अग्ने । विश्वामित्रेषु । शम् । योः । मर्मृज्म । ते । तन्वम् । भूरि । कृत्वः ॥ut | śociṣā | sahasaḥ | putra | stutaḥ | bṛhat | vayaḥ | śaśamāneṣu | dhehi | revat | agne | viśvāmitreṣu | śam | yoḥ | marmṛjma | te | tanvam | bhūri | kṛtvaḥ