Sukta 3.18
कृधि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत्समिद्धः । स्तोतुर्दुरोणे सुभगस्य रेवत्सृप्रा करस्ना दधिषे वपूंषि ॥
कृ॒धि रत्नं॑ सुसनित॒र्धना॑नां॒ स घेद॑ग्ने भवसि॒ यत्समि॑द्धः । स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत्सृ॒प्रा क॒रस्ना॑ दधिषे॒ वपूं॑षि ॥
kṛdhí rátnaṃ susanitár dhanā́nāṃ sá ghed agne bhavasi yát samíddhaḥ | stotúr duroṇé subhágasya revát sṛprā́ karásnā dadhíṣe vapū́ṃṣi ||
Fashion for us the jewel of inner plenitude, the good winning of the soul’s riches; for indeed, O Agni, when you are kindled you become that effective Power. In the dwelling of the fortunate singer you set your radiant forms—your strong-flaming energies—so that the house of consciousness becomes opulent with Light.
कृ॒धि । रत्न॑म् । सु॒ऽस॒नि॒तः॒ । धना॑नाम् । सः । घ॒ । इत् । अ॒ग्ने॒ । भ॒व॒सि॒ । यत् । समि॑द्धः । स्तो॒तुः । दु॒रो॒णे । सु॒ऽभग॑स्य । रे॒वत् । सृ॒प्रा । क॒रस्ना॑ । द॒धि॒षे॒ । वपूं॑षि ॥कृधि । रत्नम् । सुसनितः । धनानाम् । सः । घ । इत् । अग्ने । भवसि । यत् । समिद्धः । स्तोतुः । दुरोणे । सुभगस्य । रेवत् । सृप्रा । करस्ना । दधिषे । वपूंषि ॥kṛdhi | ratnam | su-sanitaḥ | dhanānām | saḥ | gha | it | agne | bhavasi | yat | sami ddhaḥ | stotuḥ | duroṇe | su-bhagasya | revat | sṛprā | karasnā | dadhiṣe | vapūṃṣi