Sukta 3.18
तपो ष्वग्ने अन्तराँ अमित्रान्तपा शंसमररुषः परस्य । तपो वसो चिकितानो अचित्तान्वि ते तिष्ठन्तामजरा अयासः ॥
तपो॒ ष्व॑ग्ने॒ अन्त॑राँ अ॒मित्रा॒न्तपा॒ शंस॒मर॑रुष॒: पर॑स्य । तपो॑ वसो चिकिता॒नो अ॒चित्ता॒न्वि ते॑ तिष्ठन्ताम॒जरा॑ अ॒यास॑: ॥
tápo ṣv agne ántarāṃ amítrān tápā śáṃsam araruṣáḥ párasya | tápo vaso cikitānáḥ acíttān ví te tiṣṭhantām ajárā ayā́saḥ ||
Burn with your heat, O Agni, the inner enemies; burn the hostile proclamation of the one who rages against us. O Vasu, conscious in your seeing, let your unaging, unfailing fires stand out against the unmindful and obscure forces.
तपो॒ इति॑ । सु । अ॒ग्ने॒ । अन्त॑रान् । अ॒मित्रा॑न् । तप॑ । शंस॑म् । अर॑रुषः । पर॑स्य । तपो॒ इति॑ । व॒सो॒ इति॑ । चि॒कि॒ता॒नः । अ॒चित्ता॑न् । वि । ते॒ । ति॒ष्ठ॒न्ता॒म् । अ॒जराः॑ । अ॒यासः॑ ॥तपो इति । सु । अग्ने । अन्तरान् । अमित्रान् । तप । शंसम् । अररुषः । परस्य । तपो इति । वसो इति । चिकितानः । अचित्तान् । वि । ते । तिष्ठन्ताम् । अजराः । अयासः ॥tapo iti | su | agne | antarān | amitrān | tapa | śaṃsam | araruṣaḥ | parasya | tapo iti | vaso iti | cikitānaḥ | acittān | vi | te | tiṣṭhantām | ajarāḥ | ayāsaḥ