Sukta 3.18
भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः । पुरुद्रुहो हि क्षितयो जनानां प्रति प्रतीचीर्दहतादरातीः ॥
भवा॑ नो अग्ने सु॒मना॒ उपे॑तौ॒ सखे॑व॒ सख्ये॑ पि॒तरे॑व सा॒धुः । पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना॑नां॒ प्रति॑ प्रती॒चीर्द॑हता॒दरा॑तीः ॥
bhávā no agne sumánā upétau sákhāiva sákhye pitaréva sādhúḥ | purudrúho hí kṣitáyo jánānāṃ práti pratīcī́r dahatād árātīḥ ||
Be for us, O Agni, a happy-minded presence when you come near—like a friend in friendship, like a father, a true helper. For many are the hostile powers among the habitations of men; burn back the returning attacks, the forces of ill-will.
भव॑ । नः॒ । अ॒ग्ने॒ । सु॒ऽमनाः॑ । उप॑ऽइतौ । सखा॑ऽइव । सख्ये॑ । पि॒तराऽइव । सा॒धुः । पु॒रु॒ऽद्रुहः॑ । हि । क्षि॒तयः॑ । जना॑नाम् । प्रति॑ । प्र॒ती॒चीः । द॒ह॒ता॒त् । अरा॑तीः ॥भव । नः । अग्ने । सुमनाः । उपइतौ । सखाइव । सख्ये । पितराइव । साधुः । पुरुद्रुहः । हि । क्षितयः । जनानाम् । प्रति । प्रतीचीः । दहतात् । अरातीः ॥bhava | naḥ | agne | su-manāḥ | upa-itau | sakhāiva | sakhye | pitarāiva | sādhuḥ | puru-druhaḥ | hi | kṣitayaḥ | janānām | prati | pratīcīḥ | dahatāt | arātīḥ