Sukta 3.17
अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः । त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम् ॥
अ॒ग्निं सु॑दी॒तिं सु॒दृशं॑ गृ॒णन्तो॑ नम॒स्याम॒स्त्वेड्यं॑ जातवेदः । त्वां दू॒तम॑र॒तिं ह॑व्य॒वाहं॑ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥
agníṃ sudītíṃ sudṛ́śaṃ gṛṇánto namasyā́mas tvéḍyaṃ jā́tavedas | tvā́ṃ dūtám aratíṃ havyavā́haṃ devā́ akṛṇvann amṛ́tasya nā́bhim ||
Singing Agni, well-kindled and beautiful to behold, we bow to you, O Jātavedas, worthy of our seeking. The gods made you their messenger, the tireless mover, the carrier of the offering—navel-centre of the deathless.
अ॒ग्निम् । सु॒ऽदी॒तिम् । सु॒ऽदृश॑म् । गृ॒णन्तः॑ । न॒म॒स्यामः॑ । त्वा॒ । ईड्य॑म् । जा॒त॒ऽवे॒दः॒ । त्वाम् । दू॒तम् । अ॒र॒तिम् । ह॒व्य॒ऽवाह॑म् । दे॒वाः । अ॒कृ॒ण्व॒न् । अ॒मृत॑स्य । नाभि॑म् ॥अग्निम् । सुदीतिम् । सुदृशम् । गृणन्तः । नमस्यामः । त्वा । ईड्यम् । जातवेदः । त्वाम् । दूतम् । अरतिम् । हव्यवाहम् । देवाः । अकृण्वन् । अमृतस्य । नाभिम् ॥agnim | su-dītim | su-dṛśam | gṛṇantaḥ | namasyāmaḥ | tvā | īḍyam | jāta-vedaḥ | tvām | dūtam | aratim | havya-vāham | devāḥ | akṛṇvan | amṛtasya | nābhim