Sukta 3.17
यस्त्वद्धोता पूर्वो अग्ने यजीयान्द्विता च सत्ता स्वधया च शम्भुः । तस्यानु धर्म प्र यजा चिकित्वोऽथ नो धा अध्वरं देववीतौ ॥
यस्त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑यान्द्वि॒ता च॒ सत्ता॑ स्व॒धया॑ च श॒म्भुः । तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वोऽथ॑ नो धा अध्व॒रं दे॒ववी॑तौ ॥
yás tvád dhótā pū́rvo agne yájīyān dvitā́ ca sáttā svadháyā ca śambhúḥ | tásyā́nu dhárma prá yajā cikitvó’thā no dhā adhvaráṃ devávītau ||
He who was your first priest, O Agni—more worshipful than others—who is also the second presence, self-sustained in his own law and a bringer of bliss: following his rite-order, sacrifice forth with conscious knowledge; then set for us the course of the adhvara in the gods’ welcoming.
यः । त्वत् । होता॑ । पूर्वः॑ । अ॒ग्ने॒ । यजी॑यान् । द्वि॒ता । च॒ । सत्ता॑ । स्व॒धया॑ । च॒ । श॒म्ऽभुः । तस्य॑ । अनु॑ । धर्म॑ । प्र । य॒ज॒ । चि॒कि॒त्वः॒ । अथ॑ । नः॒ । धाः॒ । अ॒ध्व॒रम् । दे॒वऽवी॑तौ ॥यः । त्वत् । होता । पूर्वः । अग्ने । यजीयान् । द्विता । च । सत्ता । स्वधया । च । शम्भुः । तस्य । अनु । धर्म । प्र । यज । चिकित्वः । अथ । नः । धाः । अध्वरम् । देववीतौ ॥yaḥ | tvat | hotā | pūrvaḥ | agne | yajīyān | dvitā | ca | sattā | svadhayā | ca | śam-bhuḥ | tasya | anu | dharma | pra | yaja | cikitvaḥ | atha | naḥ | dhāḥ | adhvaram | deva-vītau