Sukta 3.17
त्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने । ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः ॥
त्रीण्यायूं॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने । ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथा॑ भव॒ यज॑मानाय॒ शं योः ॥
trī́ṇy āyū́ṃṣi táva jā́tavedas tisrá ājā́nīr uṣásas te agne | tā́bhir devā́nām ávo yakṣi vidvā́n áthā bhava yajamā́nāya śáṃ yóḥ ||
Three are your life-powers, O Jātavedas; three are the dawns, your near-born kin, O Agni. With them, knowing, sacrifice to win the gods’ help; then become for the sacrificer peace and a happy wideness.
त्रीणि॑ । आयूं॑षि । तव॑ । जा॒त॒ऽवे॒दः॒ । ति॒स्रः । आ॒ऽजानीः॑ । उ॒षसः॑ । ते॒ । अ॒ग्ने॒ । ताभिः॑ । दे॒वाना॑म् । अवः॑ । य॒क्षि॒ । वि॒द्वान् । अथ॑ । भ॒व॒ । यज॑मानाय । शम् । योः ॥त्रीणि । आयूंषि । तव । जातवेदः । तिस्रः । आजानीः । उषसः । ते । अग्ने । ताभिः । देवानाम् । अवः । यक्षि । विद्वान् । अथ । भव । यजमानाय । शम् । योः ॥trīṇi | āyūṃṣi | tava | jāta-vedaḥ | tisraḥ | ājānīḥ | uṣasaḥ | te | agne | tābhiḥ | devānām | avaḥ | yakṣi | vidvān | atha | bhava | yajamānāya | śam | yoḥ