Sukta 3.17
यथायजो होत्रमग्ने पृथिव्या यथा दिवो जातवेदश्चिकित्वान् । एवानेन हविषा यक्षि देवान्मनुष्वद्यज्ञं प्र तिरेममद्य ॥
यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या यथा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् । ए॒वानेन॑ ह॒विषा॑ यक्षि दे॒वान्म॑नु॒ष्वद्य॒ज्ञं प्र ति॑रे॒मम॒द्य ॥
yáthā́yajo hotrám agne pṛthivyā́ yáthā́ divó jā́tavedas cikitvā́n | evā́néna havíṣā yakṣi devā́n manuṣvád yajñáṃ prá tirémám adyá ||
As once you performed the priestly work on earth, and as from heaven, O Jātavedas, you did it with conscious knowledge—so now by this offering-sacrifice, sacrifice to the gods in the human way; carry this yajña forward beyond its present limit, today.
यथा॑ । अय॑जः । हो॒त्रम् । अ॒ग्ने॒ । पृ॒थि॒व्याः । यथा॑ । दि॒वः । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् । ए॒व । अ॒नेन॑ । ह॒विषा॑ । य॒क्षि॒ । दे॒वान् । म॒नु॒ष्वत् । य॒ज्ञम् । प्र । ति॒र॒ । इ॒मम् । अ॒द्य ॥यथा । अयजः । होत्रम् । अग्ने । पृथिव्याः । यथा । दिवः । जातवेदः । चिकित्वान् । एव । अनेन । हविषा । यक्षि । देवान् । मनुष्वत् । यज्ञम् । प्र । तिर । इमम् । अद्य ॥yathā | ayajaḥ | hotram | agne | pṛthivyāḥ | yathā | divaḥ | jāta-vedaḥ | cikitvān | eva | anena | haviṣā | yakṣi | devān | manuṣvat | yajñam | pra | tira | imam | adya