Sukta 3.17
समिध्यमानः प्रथमानु धर्मा समक्तुभिरज्यते विश्ववारः । शोचिष्केशो घृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाय देवान् ॥
स॒मि॒ध्यमा॑नः प्रथ॒मानु॒ धर्मा॒ सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः । शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः सु॑य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् ॥
samidhyamā́naḥ prathamā́nu dhármā sáṃ aktúbhir ajyate viśvávāraḥ | śocíṣkeśo ghṛtánirnik pāvakáḥ suyajñó agnír yajáthāya devā́n ||
Kindled, he goes first according to the eternal law of the rite; with nights and days he is anointed, the bearer of all desirable boons. With hair of flame, with a gleam as of clarified light, the purifier—Agni, perfecter of the sacrifice—moves to the act of worship that brings the gods.
स॒म्ऽइ॒ध्यमा॑नः । प्र॒थ॒मा । अनु॑ । धर्म॑ । सम् । अ॒क्तुऽभिः॑ । अ॒ज्य॒ते॒ । वि॒श्वऽवा॑रः । शो॒चिःऽके॑शः । घृ॒तऽनि॑र्निक् । पा॒व॒कः । सु॒ऽय॒ज्ञः । अ॒ग्निः । य॒जथा॑य । दे॒वान् ॥सम्इध्यमानः । प्रथमा । अनु । धर्म । सम् । अक्तुभिः । अज्यते । विश्ववारः । शोचिःकेशः । घृतनिर्निक् । पावकः । सुयज्ञः । अग्निः । यजथाय । देवान् ॥sam-idhyamānaḥ | prathamā | anu | dharma | sam | aktu-bhiḥ | ajyate | viśva-vāraḥ | śociḥ-keśaḥ | ghṛta-nirnik | pāvakaḥ | su-yajñaḥ | agniḥ | yajathāya | devān