Sukta 3.14
तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म । त्वं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अमृत स्वदेह ॥
तुभ्यं॑ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता॑सो अध्व॒रे अक॑र्म । त्वं विश्व॑स्य सु॒रथ॑स्य बोधि॒ सर्वं॒ तद॑ग्ने अमृत स्वदे॒ह ॥
túbhyaṃ dakṣa kaví-krato yā́ny imā́ deva mártāso adhvaré ákarm | tváṃ víśvasya su-ráthasya bodhi sárvaṃ tád agne amṛta svadéha ||
For thee, O capable one, O seer-willed, we mortals have done these works in the sacrifice, O god. Be thou aware of all that moves in the good chariot-course; and taste here, O Agni immortal, the whole of it in its sweetness.
तुभ्य॑म् । द॒क्ष॒ । क॒वि॒क्र॒तो॒ इति॑ कविऽक्रतो । यानि॑ । इ॒मा । देव॑ । मर्ता॑सः । अ॒ध्व॒रे । अक॑र्म । त्वम् । विश्व॑स्य । सु॒ऽरथ॑स्य । बो॒धि॒ । सर्व॑म् । तत् । अ॒ग्ने॒ । अ॒मृ॒त॒ । स्व॒द॒ । इ॒ह ॥तुभ्यम् । दक्ष । कविक्रतो इति कविक्रतो । यानि । इमा । देव । मर्तासः । अध्वरे । अकर्म । त्वम् । विश्वस्य । सुरथस्य । बोधि । सर्वम् । तत् । अग्ने । अमृत । स्वद । इह ॥tubhyam | dakṣa | kavikrato itikavi-krato | yāni | imā | deva | martāsaḥ | adhvare | akarma | tvam | viśvasya | su-rathasya | bodhi | sarvam | tat | agne | amṛta | svada | iha