Sukta 3.14
त्वद्धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः । त्वं देहि सहस्रिणं रयिं नोऽद्रोघेण वचसा सत्यमग्ने ॥
त्वद्धि पु॑त्र सहसो॒ वि पू॒र्वीर्दे॒वस्य॒ यन्त्यू॒तयो॒ वि वाजा॑: । त्वं दे॑हि सह॒स्रिणं॑ र॒यिं नो॑ऽद्रो॒घेण॒ वच॑सा स॒त्यम॑ग्ने ॥
tvád dhi putra sahaso ví pū́rvīr devásya yánty ūtáyo ví vājā́ḥ | tváṃ dehi sahasríṇaṃ rayíṃ no’dróghena vácasā satyám agne ||
From thee indeed, O son of Force, go forth the many ancient helps of the god, and the plenitudes of energising power. Do thou give us the thousand-fold rayi—by a word without deceit, O Agni, a word of truth.
त्वत् । हि । पु॒त्र॒ । स॒ह॒सः॒ । वि । पू॒र्वीः । दे॒वस्य॑ । यन्ति॑ । ऊ॒तयः॑ । वि । वाजाः॑ । त्वम् । दे॒हि॒ । स॒ह॒स्रिण॑म् । र॒यिम् । नः॒ । अ॒द्रो॒घेण॑ । वच॑सा । स॒त्यम् । अ॒ग्ने॒ ॥त्वत् । हि । पुत्र । सहसः । वि । पूर्वीः । देवस्य । यन्ति । ऊतयः । वि । वाजाः । त्वम् । देहि । सहस्रिणम् । रयिम् । नः । अद्रोघेण । वचसा । सत्यम् । अग्ने ॥tvat | hi | putra | sahasaḥ | vi | pūrvīḥ | devasya | yanti | ūtayaḥ | vi | vājāḥ | tvam | dehi | sahasriṇam | rayim | naḥ | adrogheṇa | vacasā | satyam | agne