Sukta 3.12
इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः । ऋतस्य पथ्या अनु ॥
इन्द्रा॑ग्नी॒ अप॑स॒स्पर्युप॒ प्र य॑न्ति धी॒तय॑: । ऋ॒तस्य॑ प॒थ्या॒३॒॑ अनु॑ ॥
índrāgnī ápasas pár y úpa prá yanti dhītáyaḥ | ṛtásya pathyā̀́ anu ||
O Indra and Agni, the inspired thoughts move forth and upward, encircling the Work; they advance along the paths of Ṛta, following the true course of the Truth-Order.
इन्द्रा॑ग्नी॒ इति॑ । अप॑सः । परि॑ । उप॑ । प्र । य॒न्ति॒ । धी॒तयः॑ । ऋ॒तस्य॑ । प॒थ्याः॑ । अनु॑ ॥इन्द्राग्नी इति । अपसः । परि । उप । प्र । यन्ति । धीतयः । ऋतस्य । पथ्याः । अनु ॥indrāgnī iti | apasaḥ | pari | upa | pra | yanti | dhītayaḥ | ṛtasya | pathyāḥ | anu