Sukta 3.12
प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः । इन्द्राग्नी इष आ वृणे ॥
प्र वा॑मर्चन्त्यु॒क्थिनो॑ नीथा॒विदो॑ जरि॒तार॑: । इन्द्रा॑ग्नी॒ इष॒ आ वृ॑णे ॥
prá vām arcanty ukthíno nīthā-vído jaritā́raḥ | indrā́gnī íṣa ā́ vṛṇe ||
The chanters, knowers of the leading paths, sing you forth, O Indra and Agni; I choose for myself your iṣ—your impulsion of nourishment and divine increase.
प्र । वा॒म् । अ॒र्च॒न्ति॒ । उ॒क्थिनः॑ । नी॒थ॒ऽविदः॑ । ज॒रि॒तारः॑ । इन्द्रा॑ग्नी॒ इति॑ । इषः॑ । आ । वृ॒णे॒ ॥प्र । वाम् । अर्चन्ति । उक्थिनः । नीथविदः । जरितारः । इन्द्राग्नी इति । इषः । आ । वृणे ॥pra | vām | arcanti | ukthinaḥ | nītha-vidaḥ | jaritāraḥ | indrāgnī iti | iṣaḥ | ā | vṛṇe