Sukta 3.12
इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे । ता सोमस्येह तृम्पताम् ॥
इन्द्र॑म॒ग्निं क॑वि॒च्छदा॑ य॒ज्ञस्य॑ जू॒त्या वृ॑णे । ता सोम॑स्ये॒ह तृ॑म्पताम् ॥
índram agníṃ kaví-cchadā yajñásya jūtyā́ vṛṇe | tā́ somásyehá tṛmpatām ||
Indra and Agni I choose—covered in the seer’s light—for the swift advance of the sacrifice; may those two be satisfied here with Soma’s delight.
इन्द्र॑म् । अ॒ग्निम् । क॒वि॒ऽछदा॑ । य॒ज्ञस्य॑ । जू॒त्या । वृ॒णे॒ । ता । सोम॑स्य । इ॒ह । तृ॒म्प॒ता॒म् ॥इन्द्रम् । अग्निम् । कविछदा । यज्ञस्य । जूत्या । वृणे । ता । सोमस्य । इह । तृम्पताम् ॥indram | agnim | kavi-chadā | yajñasya | jūtyā | vṛṇe | tā | somasya | iha | tṛmpatām