Sukta 3.11
अभि प्रयांसि वाहसा दाश्वाँ अश्नोति मर्त्यः । क्षयं पावकशोचिषः ॥
अ॒भि प्रयां॑सि॒ वाह॑सा दा॒श्वाँ अ॑श्नोति॒ मर्त्य॑: । क्षयं॑ पाव॒कशो॑चिषः ॥
abhí prayā́ṃsi vā́hasā dāśvā́m̐ aśnoti mártyaḥ | kṣáyaṃ pāvaka-śóciṣaḥ ||
By his bearing power the mortal who gives reaches the forward-goings (the progressive attainments); he wins a dwelling in the radiant purity of Agni’s flame.
अ॒भि । प्रयां॑सि । वाह॑सा । दा॒श्वान् । अ॒श्नो॒ति॒ । मर्त्यः॑ । क्षय॑म् । पा॒व॒कऽशो॑चिषः ॥अभि । प्रयांसि । वाहसा । दाश्वान् । अश्नोति । मर्त्यः । क्षयम् । पावकशोचिषः ॥abhi | prayāṃsi | vāhasā | dāśvān | aśnoti | martyaḥ | kṣayam | pāvaka-śociṣaḥ