Sukta 3.11
साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः । अग्निस्तुविश्रवस्तमः ॥
सा॒ह्वान्विश्वा॑ अभि॒युज॒: क्रतु॑र्दे॒वाना॒ममृ॑क्तः । अ॒ग्निस्तु॒विश्र॑वस्तमः ॥
sāhvā́n víśvā abhiyújaḥ krátur devā́nām ámṛktaḥ | agnís tuvī́-śrávas-tamaḥ ||
All opposing pressures he overcomes; he is the unerring power of effective will among the gods—Agni, most wide-renowned, whose working cannot be thwarted.
सा॒ह्वान् । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । क्रतुः॑ । दे॒वाना॑म् । अमृ॑क्तः । अ॒ग्निः । तु॒विश्र॑वःऽतमः ॥साह्वान् । विश्वाः । अभियुजः । क्रतुः । देवानाम् । अमृक्तः । अग्निः । तुविश्रवःतमः ॥sāhvān | viśvāḥ | abhi-yujaḥ | kratuḥ | devānām | amṛktaḥ | agniḥ | tuviśravaḥ-tamaḥ