Sukta 3.11
परि विश्वानि सुधिताग्नेरश्याम मन्मभिः । विप्रासो जातवेदसः ॥
परि॒ विश्वा॑नि॒ सुधि॑ता॒ग्नेर॑श्याम॒ मन्म॑भिः । विप्रा॑सो जा॒तवे॑दसः ॥
pári víśvāni su-dhítā agnér aśyāma mánma-bhiḥ | víprāso jāta-védasaḥ ||
May we, the inspired seers of Jātavedas, encompass and attain all the well-set treasures of Agni by our formed thoughts—by our illumined word and inner intention.
परि॑ । विश्वा॑नि । सुऽधि॑ता । अ॒ग्नेः । अ॒श्या॒म॒ । मन्म॑ऽभिः । विप्रा॑सः । जा॒तऽवे॑दसः ॥परि । विश्वानि । सुधिता । अग्नेः । अश्याम । मन्मभिः । विप्रासः । जातवेदसः ॥pari | viśvāni | su-dhitā | agneḥ | aśyāma | manma-bhiḥ | viprāsaḥ | jāta-vedasaḥ