Sukta 3.11
अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः । अर्थं ह्यस्य तरणि ॥
अ॒ग्निर्धि॒या स चे॑तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः । अर्थं॒ ह्य॑स्य त॒रणि॑ ॥
agnír dhiyā́ sá cetati ketúr yajñásya pūrvyáḥ | árthaṃ hy asya táraṇi ||
Agni by the inspired intelligence becomes conscious and awake; he is the ancient beacon of the sacrifice. For he carries across and secures its true aim—he makes the meaning and purpose of the offering effective.
अ॒ग्निः । धि॒या । सः । चे॒त॒ति॒ । के॒तुः । य॒ज्ञस्य॑ । पू॒र्व्यः । अर्थ॑म् । हि । अ॒स्य॒ । त॒रणि॑ ॥अग्निः । धिया । सः । चेतति । केतुः । यज्ञस्य । पूर्व्यः । अर्थम् । हि । अस्य । तरणि ॥agniḥ | dhiyā | saḥ | cetati | ketuḥ | yajñasya | pūrvyaḥ | artham | hi | asya | taraṇi