Sukta 3.11
अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् । वह्निं देवा अकृण्वत ॥
अ॒ग्निं सू॒नुं सन॑श्रुतं॒ सह॑सो जा॒तवे॑दसम् । वह्निं॑ दे॒वा अ॑कृण्वत ॥
agníṃ sūnúṃ sanaśrútaṃ sáhaso jā́tavedasam | váhniṃ devā́ akṛṇvata ||
Agni, the son of the Force, famed from of old, the knower of births—him the gods made the carrier, the bearing power. Thus the divine powers establish in us the Fire that can carry the offering and the becoming.
अ॒ग्निम् । सू॒नुम् । सन॑ऽश्रुतम् । सह॑सः । जा॒तऽवे॑दसम् । वह्नि॑म् । दे॒वाः । अ॒कृ॒ण्व॒त॒ ॥अग्निम् । सूनुम् । सनश्रुतम् । सहसः । जातवेदसम् । वह्निम् । देवाः । अकृण्वत ॥agnim | sūnum | sana-śrutam | sahasaḥ | jāta-vedasam | vahnim | devāḥ | akṛṇvata