Sukta 3.11
स हव्यवाळमर्त्य उशिग्दूतश्चनोहितः । अग्निर्धिया समृण्वति ॥
स ह॑व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः । अ॒ग्निर्धि॒या समृ॑ण्वति ॥
sá havya-vā́ḷ amártya uśíg dūtáś canóhitaḥ | agnír dhiyā́ sám ṛṇvati ||
He, the immortal bearer of the offering, the eager flame, the messenger set for our delight—Agni by the awakened thought brings the powers into harmony and sets the work rightly in motion.
सः । ह॒व्य॒ऽवाट् । अम॑र्त्यः । उ॒शिक् । दू॒तः । चनः॑ऽहितः । अ॒ग्निः । धि॒या । सम् । ऋ॒ण्व॒ति॒ ॥सः । हव्यवाट् । अमर्त्यः । उशिक् । दूतः । चनःहितः । अग्निः । धिया । सम् । ऋण्वति ॥saḥ | havya-vāṭ | amartyaḥ | uśik | dūtaḥ | canaḥ-hitaḥ | agniḥ | dhiyā | sam | ṛṇvati