Sukta 3.11
अग्निर्होता पुरोहितोऽध्वरस्य विचर्षणिः । स वेद यज्ञमानुषक् ॥
अ॒ग्निर्होता॑ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः । स वे॑द य॒ज्ञमा॑नु॒षक् ॥
agnír hótā purohíto ’dhvarásya vícarṣaṇiḥ | sá veda yajñám ānuṣák ||
Agni, the invoking priest set in front, the wide-seeing of the sacrifice—he knows the human offering in its right sequence, and leads it by the truth of his discernment.
अ॒ग्निः । होता॑ । पु॒रःऽहि॑तः । अ॒ध्व॒रस्य॑ । विऽच॑र्षणिः । सः । वे॒द॒ । य॒ज्ञम् । आ॒नु॒षक् ॥अग्निः । होता । पुरःहितः । अध्वरस्य । विचर्षणिः । सः । वेद । यज्ञम् । आनुषक् ॥agniḥ | hotā | puraḥ-hitaḥ | adhvarasya | vi-carṣaṇiḥ | saḥ | veda | yajñam | ānuṣak