Sukta 3.10
स नः पावक दीदिहि द्युमदस्मे सुवीर्यम् । भवा स्तोतृभ्यो अन्तमः स्वस्तये ॥
स न॑: पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्य॑म् । भवा॑ स्तो॒तृभ्यो॒ अन्त॑मः स्व॒स्तये॑ ॥
sá naḥ pāvaka dīdihi dyumád asmé su-vī́ryam | bhávā stotṛ́bhyo ántamaḥ svastáye ||
Do thou, O Purifier, blaze for us; place within us a luminous and victorious strength. Become for the singers the nearest helper—closest in our being—for our welfare and safe going.
सः । नः॒ । पा॒व॒क॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् । भव॑ । स्तो॒तृऽभ्यः॑ । अन्त॑मः । स्व॒स्तये॑ ॥सः । नः । पावक । दीदिहि । द्युमत् । अस्मे इति । सुवीर्यम् । भव । स्तोतृभ्यः । अन्तमः । स्वस्तये ॥saḥ | naḥ | pāvaka | dīdihi | dyu-mat | asme iti | su-vīryam | bhava | stotṛ-bhyaḥ | antamaḥ | svastaye