Sukta 3.10
तं त्वा विप्रा विपन्यवो जागृवांसः समिन्धते । हव्यवाहममर्त्यं सहोवृधम् ॥
तं त्वा॒ विप्रा॑ विप॒न्यवो॑ जागृ॒वांस॒: समि॑न्धते । ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृध॑म् ॥
táṃ tvā viprā́ vipanyávo jāgṛvā́ṃsaḥ sám indhate | havya-vā́ham ámartyam saho-vṛ́dham ||
The inspired, awake and ardent in seeking, kindle thee—Agni the carrier of the offering. Immortal and increaser of power, thou growest our capacity to bear the divine working.
तम् । त्वा॒ । विप्राः॑ । वि॒प॒न्यवः॑ । जा॒गृ॒ऽवांसः॑ । सम् । इ॒न्ध॒ते॒ । ह॒व्य॒ऽवाह॑म् । अम॑र्त्यम् । स॒हः॒ऽवृध॑म् ॥तम् । त्वा । विप्राः । विपन्यवः । जागृवांसः । सम् । इन्धते । हव्यवाहम् । अमर्त्यम् । सहःवृधम् ॥tam | tvā | viprāḥ | vipanyavaḥ | jāgṛ-vāṃsaḥ | sam | indhate | havya-vāham | amartyam | sahaḥ-vṛdham