Sukta 3.10
अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः । महे वाजाय द्रविणाय दर्शतः ॥
अ॒ग्निं व॑र्धन्तु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्य॑: । म॒हे वाजा॑य॒ द्रवि॑णाय दर्श॒तः ॥
agníṃ vardhantu no gíro yáto jā́yata ukthyáḥ | mahé vā́jāya dráviṇāya darśatáḥ ||
May our utterances increase Agni, from whom is born the hymn-force that wins. For the great plenitude of strength (vāja) and for the fullness of being (draviṇa), may he become visible to us—clear in the inner sight.
अ॒ग्निम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । यतः॑ । जाय॑ते । उ॒क्थ्यः॑ । म॒हे । वाजा॑य । द्रवि॑णाय । द॒र्श॒तः ॥अग्निम् । वर्धन्तु । नः । गिरः । यतः । जायते । उक्थ्यः । महे । वाजाय । द्रविणाय । दर्शतः ॥agnim | vardhantu | naḥ | giraḥ | yataḥ | jāyate | ukthyaḥ | mahe | vājāya | draviṇāya | darśataḥ