Sukta 3.10
प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् । विपां ज्योतींषि बिभ्रते न वेधसे ॥
प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् । वि॒पां ज्योतीं॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑ ॥
prá hotré pūrvyáṃ váco ’gnáye bharatā bṛhát | vipā́ṃ jyótīṃṣi bíbhrate ná vedháse ||
Bring forward to the priestly Fire the ancient word, vast and widening. For Agni is the fashioner who bears the lights of the inspired—he holds their illuminations and makes them effective in the work.
प्र । होत्रे॑ । पू॒र्व्यम् । वचः॑ । अ॒ग्नये॑ । भ॒र॒त॒ । बृ॒हत् । वि॒पाम् । ज्योतीं॑षि । बिभ्र॑ते । न । वे॒धसे॑ ॥प्र । होत्रे । पूर्व्यम् । वचः । अग्नये । भरत । बृहत् । विपाम् । ज्योतींषि । बिभ्रते । न । वेधसे ॥pra | hotre | pūrvyam | vacaḥ | agnaye | bharata | bṛhat | vipām | jyotīṃṣi | bibhrate | na | vedhase