Sukta 3.10
स घा यस्ते ददाशति समिधा जातवेदसे । सो अग्ने धत्ते सुवीर्यं स पुष्यति ॥
स घा॒ यस्ते॒ ददा॑शति स॒मिधा॑ जा॒तवे॑दसे । सो अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति ॥
sá ghā yás te dádāśati samídhā jātávedase | só agne dhatte suvī́ryaṃ sá puṣyati ||
He indeed who gives to thee with the kindling-sticks, to Jātavedas, he—O Agni—holds the plenitude of heroic force; he increases in being.
सः । घ॒ । यः । ते॒ । ददा॑शति । स॒मिधा॑ । जा॒तऽवे॑दसे । सः । अ॒ग्ने॒ । ध॒त्ते॒ । सु॒ऽवीर्य॑म् । सः । पु॒ष्य॒ति॒ ॥सः । घ । यः । ते । ददाशति । समिधा । जातवेदसे । सः । अग्ने । धत्ते । सुवीर्यम् । सः । पुष्यति ॥saḥ | gha | yaḥ | te | dadāśati | samidhā | jāta-vedase | saḥ | agne | dhatte | su-vīryam | saḥ | puṣyati