Sukta 3.10
त्वां यज्ञेष्वृत्विजमग्ने होतारमीळते । गोपा ऋतस्य दीदिहि स्वे दमे ॥
त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता॑रमीळते । गो॒पा ऋ॒तस्य॑ दीदिहि॒ स्वे दमे॑ ॥
tvā́ṃ yajñéṣv ṛtvíjam agne hótāram īḷate | gopā́ ṛtásya dīdihi své damé ||
In the sacrifices they seek thee, O Agni, as the priest of the season, as the invoking Hotṛ. Shine forth as the guardian of the Truth in thine own home.
त्वाम् । य॒ज्ञेषु॑ । ऋ॒त्विज॑म् । अग्ने॑ । होता॑रम् । ई॒ळ॒ते॒ । गो॒पाः । ऋ॒तस्य॑ । दी॒दि॒हि॒ । स्वे । दमे॑ ॥त्वाम् । यज्ञेषु । ऋत्विजम् । अग्ने । होतारम् । ईळते । गोपाः । ऋतस्य । दीदिहि । स्वे । दमे ॥tvām | yajñeṣu | ṛtvijam | agne | hotāram | īḷate | gopāḥ | ṛtasya | dīdihi | sve | dame