Sukta 3.1
पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद्वि धेनाः । गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्न गुहा बभूव ॥
पि॒तुश्चि॒दूध॑र्ज॒नुषा॑ विवेद॒ व्य॑स्य॒ धारा॑ असृज॒द्वि धेना॑: । गुहा॒ चर॑न्तं॒ सखि॑भिः शि॒वेभि॑र्दि॒वो य॒ह्वीभि॒र्न गुहा॑ बभूव ॥
pitúś cid ū́dhar jánuṣā viveda vy asya dhā́rā asṛjad ví dhenā́ḥ | guhā́ cárantaṃ sákhibhiḥ śivébhir divó yahvī́bhir ná guhā́ babhūva ||
Even the Father’s udder he knows by birth; he has released his streams, he has set free the nourishing powers. Moving in the hidden, with his auspicious comrades, with the mighty ones of heaven—he was hidden no longer.
पि॒तुः । चि॒त् । ऊधः॑ । ज॒नुषा॑ । वि॒वे॒द॒ । वि । अ॒स्य॒ । धाराः॑ । अ॒सृ॒ज॒त् । वि । धेनाः॑ । गुहा॑ । चर॑न्तम् । सखि॑ऽभिः । शि॒वेभिः॑ । दि॒वः । य॒ह्वीभिः॑ । न । गुहा॑ । ब॒भू॒व॒ ॥पितुः । चित् । ऊधः । जनुषा । विवेद । वि । अस्य । धाराः । असृजत् । वि । धेनाः । गुहा । चरन्तम् । सखिभिः । शिवेभिः । दिवः । यह्वीभिः । न । गुहा । बभूव ॥pituḥ | cit | ūdhaḥ | januṣā | viveda | vi | asya | dhārāḥ | asṛjat | vi | dhenāḥ | guhā | carantam | sakhi-bhiḥ | śivebhiḥ | divaḥ | yahvībhiḥ | na | guhā | babhūva