Sukta 3.1
बभ्राणः सूनो सहसो व्यद्यौद्दधानः शुक्रा रभसा वपूंषि । श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ॥
ब॒भ्रा॒णः सू॑नो सहसो॒ व्य॑द्यौ॒द्दधा॑नः शु॒क्रा र॑भ॒सा वपूं॑षि । श्चोत॑न्ति॒ धारा॒ मधु॑नो घृ॒तस्य॒ वृषा॒ यत्र॑ वावृ॒धे काव्ये॑न ॥
babhrāṇáḥ sū́no sahaso vy àdyaut dádhānaḥ śukrā́ rabhasā́ vapū́ṃṣi | ścótanti dhā́rā mádhuno ghṛtásya vṛ́ṣā yátra vāvṛdhé kā́vyena ||
Glowing, O Son of Force, he flashes wide, bearing bright and impetuous forms. The streams drip the honey and the clarified light, where the Bull grows by the seer’s inspired art.
ब॒भ्रा॒णः । सू॒नो॒ इति॑ । स॒ह॒सः॒ । वि । अ॒द्यौ॒त् । दधा॑नः । शु॒क्रा । र॒भ॒सा । वपूं॑षि । श्चोत॑न्ति । धाराः॑ । मधु॑नः । घृ॒तस्य॑ । वृषा॑ । यत्र॑ । व॒वृ॒धे । काव्ये॑न ॥बभ्राणः । सूनो इति । सहसः । वि । अद्यौत् । दधानः । शुक्रा । रभसा । वपूंषि । श्चोतन्ति । धाराः । मधुनः । घृतस्य । वृषा । यत्र । ववृधे । काव्येन ॥babhrāṇaḥ | sūno iti | sahasaḥ | vi | adyaut | dadhānaḥ | śukrā | rabhasā | vapūṃṣi | ścotanti | dhārāḥ | madhunaḥ | ghṛtasya | vṛṣā | yatra | vavṛdhe | kāvyena